| Paper Title | ऋग्वेदीयब्रह्मणसाहित्ये सामाजिकवर्णव्यवस्था |
| Author(s) | ड. विभूतिभूषण महापात्रः. |
| Country | |
| Abstract | अस्य शोधपत्रस्य विषयः प्राचीनभारतीयसमाजे वर्णव्यवस्थायाः स्वरूपं विशेषतः ऋग्वेदीयब्रह्मणग्रन्थेषु ब्राह्मणवर्णस्य स्थानम् इत्यस्य विश्लेषणम् अस्ति। वर्णाश्रमव्यवस्था भारतीयसमाजस्य मूलसंरचना आसीत्, या गुण-कर्म-स्वभावाधारेण संस्थिता आसीत्। प्रारम्भे वर्णानां कठोरभेदः नासीत्, किन्तु कालान्तरं तस्य वंशानुगतस्वरूपं जातम्। पुरुषसूक्ते ब्राह्मणस्य उत्पत्तिः मुखात् इति दर्श्यते, येन तस्य बुद्धि, धर्म, त्याग, निष्ठा च मुख्यगुणाः इत्यपि सूच्यन्ते। ब्राह्मणस्य कर्त्तव्यानि—अध्यापनम्, यज्ञानुष्ठानम्, राजोपदेशः, धर्मरक्षणं च। राजनीतिकजीवने ब्राह्मणः राज्ञः प्रमुखः परामर्शदाता आसीत्। सामाजिकजीवने तस्य प्रतिष्ठा मुखवदस्ति, यः यज्ञेन देवतानां सम्पर्कसेतुं साधयति। यद्यपि प्रारम्भे वर्णं गुणकर्माधारेण निर्धारितम्, कालान्तरे सः जात्याधारितः अभवत्। एषा अध्ययनम् ब्राह्मणवर्णस्य महत्त्वं, कर्त्तव्यपरता, तथा समाजे तस्य धार्मिकबौद्धिकप्रभावं प्रकाशयति। |
| Subject Area | संस्कृत |
| Issue | Volume 2, Issue 2 (April - June 2025) |
| Published | 2025/06/30 |
| How to Cite | ड. विभूतिभूषण महापात्रः (2025). ऋग्वेदीयब्रह्मणसाहित्ये सामाजिकवर्णव्यवस्था. Shodh Sangam Patrika, 2(2), 169–173. |
| License |
Copyright © 2025 The Author(s). This work is licensed under a
Creative Commons Attribution 4.0 International License (CC BY 4.0). |
View / Download PDF File