Skip to main content

Shodh Sangam Patrika

Shodh Sangam

Patrika

A National Peer-Reviewed & Refereed Quarterly Journal

  ISSN: 3049-0707 (Online)
ISSN: 3049-172X (Print)

Call For Papers - Volume 3, Issue 3 (July - September 2026)
Paper Title

वर्तमानयुगे पातञ्जलयोगदर्शनस्य प्रासङ्गिकता

Author(s)Dr. Pradeep Sharma Luitel.
CountryIndia
Abstract

‘योग’शब्दः युज् समाधौ इति धातोः घञ्प्रत्ययेन समाधिवाचकः। योगेन चित्तवृत्तीनां निरोधः भवति। पतञ्जलिमुनिः योगेन चित्तस्य, पदेन वाचां, वैद्यकेन शरीरमलस्य च अपाकरणम् अकरोत्। उच्यतेऽपि- योगेन चित्तस्य पदेन वाचां, मलं शरीरस्य च वैद्यकेन। योऽपाकरोत् तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि।। वर्तमानयुगे जनाः अत्यधिकव्यस्ततया समयाभावात् रोगिणः भवन्ति। तेषां शारीरिकमानसिकरोगनिवाराणाय योगासनानाम् आवश्यकता वर्तते। योगेन जनाः आरोग्यं प्राप्य दीर्घायुयुक्ताः भवन्ति। योगस्य प्रमुखाः भेदाः मन्त्रयोगः, लययोगः, हठयोगः, राजयोगश्च वर्तन्ते। श्रीमद्भगवद्गीतायां ज्ञानयोगः, संन्यासयोगः, कर्मयोग इत्यादीनां सविस्तरं वर्णनं वर्तते। अधुनैव सर्वकारेण प्रतिवर्षं जूनमासस्य २१ दिनाङ्के विश्वयोगदिवसःसमुद्घोषितः। अयं दिवसः समग्रविश्वे परिपाल्यते, यतो हि योगस्य अन्ताराष्ट्रिया मान्यता वर्तते। वस्तुतः योगः न केवलं शारीरिकव्यायामो नापितु मानसिकशान्तेः आत्मशुद्धेः चित्तस्थैर्यस्य च साधनं विद्यते। अतः वर्तमानप्रतिस्पर्धात्मकयुगे पातञ्जलयोगदर्शनस्य प्रासङ्गिकता अतीव महत्त्वपूर्णा वर्तते। योग एव त्रिविधतापत्रयस्य (आध्यात्मिक-आधिभौतिक- आधिदैविकानां) शान्त्यै सर्वोत्तम उपायो वर्तते।

Keywordsबीजशब्दः- आबद्धम्, निरोधः, संस्तुतः, व्यपदिश्यते, अवलम्ब्य, राजयोगः, हठयोगः, समाधिः।
Subject Areaसंस्कृत
Issue Volume 3, Issue 3 (July - September 2026)
Published2026/08/26
How to Cite Luitel, P. S. (2026). वर्तमानयुगे पातञ्जलयोगदर्शनस्य प्रासङ्गिकता. Shodh Sangam Patrika, 3(3), 49–60.
License
Copyright © 2026 The Author(s). This work is licensed under a Creative Commons Attribution 4.0 International License (CC BY 4.0).

PDF View / Download PDF File